अङ्गीकृताखिल विभूतिरपाङ्गलीला माङ्गल्यदास्तु मम मङ्गलदेवतायाः ||
मुग्धा मुहुर्विदधती वदने मुरारेः प्रेमत्रपाप्रणिहितानि गतागतानि |
मालादृशोर्मधुकरीव महोत्पले या सा मे श्रियं दिशतु सागर सम्भवा याः ||
आमीलिताक्षमधिग्यम मुदा मुकुन्दम् आनन्दकन्दमनिमेषमनङ्ग तन्त्रं |
आकेकरस्थितकनीनिकपक्ष्मनेत्रं भूत्यै भवन्मम भुजङ्ग शयाङ्गना याः ||
बाह्नन्तरे मधुजितः श्रितकौस्तुभे या हारावलीव हरिनीलमयी विभाति |
कामप्रदा भगवतोऽपि कटाक्षमाला कल्याणमावहतु मे कमलालया याः ||
कालाम्बुदालि ललितोरसि कैटभारेः धाराधरे स्फुरति या तटिदङ्गनेव |
मातुस्समस्तजगतां महनीयमूर्तिः भद्राणि मे दिशतु भार्गवनन्दना याः ||
प्राप्तं पदं प्रथमतः खलु यत्प्रभावात् माङ्गल्यभाजि मधुमाथिनि मन्मथेन |
मय्यापतेत्तदिह मन्थरमीक्षणार्थं मन्दालसं च मकरालय कन्यका याः ||
विश्वामरेन्द्र पद विभ्रम दानदक्षम् आनन्दहेतुरधिकं मुरविद्विषोऽपि |
ईषन्निषीदतु मयि क्षणमीक्षणार्थं इन्दीवरोदर सहोदरमिन्दिरा याः ||
इष्टा विशिष्टमतयोपि यया दयार्द्र दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते |
दृष्टिः प्रहृष्ट कमलोदर दीप्तिरिष्टां पुष्टिं कृषीष्ट मम पुष्कर विष्टरा याः ||
दद्याद्द्यानु पवनो द्रविणाम्बुधारां अस्मिन्नकिञ्चन विहङ्ग शिशौ विषण्णे |
दुष्कर्मघर्ममपनीय चिराय दूरं नारायण प्रणयिनी नयनाम्बुवाहः ||
गीर्देवतेति गरुडध्वज सुन्दरीति शाकम्बरीति शशिशेखर वल्लभेति |
सृष्टि स्थिति प्रलय केलिषु संस्थितायै तस्यै नमस्त्रिभुवनैक गुरोस्तरुण्यै ||
श्रुत्यै नमोऽस्तु शुभकर्म फलप्रसूत्यै रत्यै नमोऽस्तु रमणीय गुणार्णवायै |
शक्त्यै नमोऽस्तु शतपत्र निकेतनायै पुष्ट्यै नमोऽस्तु पुरुषोत्तम वल्लभायै ||
नमोऽस्तु नालीक निभाननायै नमोऽस्तु दुग्धोदधि जन्मभूम्यै |
नमोऽस्तु सोमामृत सोदरायै नमोऽस्तु नारायण वल्लभायै ||
नमोऽस्तु हेमाम्बुज पीठिकायै नमोऽस्तु भूमण्डल नायिकायै |
नमोऽस्तु देवादि दयापरायै नमोऽस्तु शाङ्गायुध वल्लभायै ||
नमोऽस्तु देव्यै भृगुनन्दनायै नमोऽस्तु विष्णोरुरसि स्थितायै |
नमोऽस्तु लक्ष्म्यै कमलालयायै नमोऽस्तु दामोदर वल्लभायै ||
नमोऽस्तु कान्त्यै कमलेक्षणायै नमोऽस्तु भूत्यै भुवनप्रसूत्यै |
नमोऽस्तु देवादिभिरर्चितायै नमोऽस्तु नन्दात्मज वल्लभायै ||
सम्पत्कराणि सकलेन्द्रिय नन्दनानि साम्राज्य दानविभवानि सरोरुहाक्षि |
त्वद्वन्दनानि दुरिता हरणोद्यतानि मामेव मातरनिशं कलयन्तु मान्ये ||
यत्कटाक्ष समुपासना विधिः सेवकस्य सकलार्थ सम्पदः |
सन्तनोति वचनाङ्ग मानसैः त्वां मरारिहृदयेश्वरीं भजे ॥
सरसिजनिलये सरोजहस्ते धवलतमांशुक गन्धमाल्यशोभे |
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरी प्रसीदमह्यं ||
दिग्धस्तिभिः कनक कुम्भमुखावसृष्ट स्वर्वाहिनी विमलचारुजलाप्लुताङ्गीम् |
प्रातर्नमामि जगतां जननीमशेष लोकधिनाथ गृहिणीममृताब्धिपुत्रीं ||
कमले कमलाक्ष वल्लभे त्वं करुणापूर तरङ्गितैरपाङ्गैः |
अवलोकय मामकिञ्चनानां प्रथमं पात्रमकृतिमं दयायाः ||
देवि प्रसीद जगदीश्वरि लोकमातः कल्याणगात्रि कमलेक्षण जीवनाथे |
दारिद्र्यभीतिहृदयं शरणागतं मां आलोकय प्रतिदिनं सदयैरपाङ्गः ||
स्तुवन्ति ये स्तुतिभिरमीभिरन्वहं त्रयीमयीं त्रिभुवनमातरं रमां |
गुणाधिका गुरुतुर भाग्य भागिनः भवन्ति ते भुवि बुध भाविताशयाः ||
आदि शंकराचार्य .....🙏
No comments:
Post a Comment